श्री दामोदराष्टक

Śrī Dāmodaraṣṭaka (in Hindi)

नमामीश्वरं सच्चिदानंद रूपं
लसत्-कुंडलं गोकुले भ्राजमानं
यशोदाभियोलूखलाद्धावमानं
परामृष्टं अत्यंततो द्रुत्य गोप्या

रुदंतं मुहुर् नेत्र-युग्मं मृजंतं
करांभोज-युग्मेन सातंक-नेत्रं
मुहुः श्वास-कंप-त्रिरेखांक-कंठ-
स्थित-ग्रैवं दामोदरं भक्तिबद्धम्

इतीदृक् स्व-लीलाभीरानंद-कुंडे
स्व-घोषं निमज्जंतं आख्यापयंतं
तदीयेषित-ज्ञेषु भक्तैर्जितत्वं
पुनः प्रेमतस्तं शतावृत्ति वंदे

वरं देव मोक्षं न मोक्षावधिं वा
न चान्यं वृणे हं वरेशाद् अपीह
इदं ते वपुर्नाथ गोपाल-बालं
सदा मे मनस्या विरास्तां किमन्यैः

इदं ते मुखांभोजं अत्यंत-नीलैः
वृतं कुंतलैः स्निग्ध-रक्तैश्च गोप्या
मुहुश्चुंबितं बिंब रक्ताधरं मे
मनस्याविरास्तां अलं लक्ष-लाभैः

नमो देव दामोदरानंत विष्णो
प्रसीद प्रभो दुःख-जलाब्धि-मग्नं
कृपा-दृष्टि-वृष्ट्यातिदीनं बतानु-
गृहाणेश-मां अज्ञं एद्यक्षिदृश्यः

कुवॆरात्म जौ बद्ध- मूर्त्यैव यद्वत्
त्वया मोचितौ भक्ति-भाजौ कृतौ च
तथा प्रेम-भक्तिं स्वकां मे प्रयच्छ
न मोक्षे गृहो मेऽस्ति दामोदरेह

नमस्तेस्तु दाम्ने स्फुरद्-दीप्ति-धाम्ने
त्वदीयोदरायाथ विश्वस्य धाम्ने
नमो राधिकायै त्वदीय प्रियायै
नमोऽनंत लीलाय देवाय तुभ्यम्

ध्वनि

  1. भक्त वृन्द- इस्कॉन बैंगलोर