श्री श्री षड्- गोस्वामि-अष्टक

Śrī Śrī Ṣaḍ-gosvāmy-aṣṭaka (in Hindi)

कृष्णोत्कीर्तन- गान-नर्तन-परौ प्रेमामृताम्भो-निधी
धीराधीर-जन-प्रियौ प्रिय-करौ निर्मत्सरौ पूजितौ
श्री-चैतन्य-कृपा-भरौ भुवि भुवो भारावहंतारकौ
वंदे रूप-सनातनौ रघु-युगौ श्री-जीव-गोपालकौ

नाना-शास्त्र-विचारणैक-निपुणौ सद्-धर्म संस्थापकौ
लोकानां हित-कारिणौ त्रि-भुवने मान्यौ शरण्याकरौ
राधा-कृष्ण-पदारविंद-भजनानंदेन मत्तालिकौ
वंदे रूप-सनातनौ रघु-युगौ श्री-जीव-गोपालकौ

श्री-गौरांग-गुणानुवर्णन-विधौ श्रद्धा-समृद्धि अन्वितौ
पापोत्ताप- निकृंतनौ तनु-भृतां गोविंद-गानामृतैः
आनंदाम्बुधि-वर्धनैक-निपुणौ कैवल्य-निस्तारकौ
वंदे रूप-सनातनौ रघु-युगौ श्री-जीव-गोपालकौ

त्यक्त्वा तूर्णम् अशेष -मंडल-पति-श्रेणें सदा तुच्छ-वत्
भूत्वा दीन गणेशकौ करुणया कौपीन-कन्थाश्रितौ
गोपी-भाव-रसामृताब्धि-लहरी-कल्लोल-मग्नौ मुहुर्
वंदे रूप-सनातनौ रघु-युगौ श्री-जीव-गोपालकौ

कूजत्-कोकिल-हंस-सारस-गणाकीर्णे मयूराकुले
नाना-रत्न-निबद्ध-मूल-विटप-श्री-युक्त-वृंदावने
राधा-कृष्णम् अहर्-निशं प्रभजतौ जीवार्थदौ यौ मुदा
वंदे रूप-सनातनौ रघु-युगौ श्री-जीव-गोपालकौ

सांख्या-पूर्वक-नाम-गान- नतिभिः कालावसानी-कृतौ
निद्राहार-विहारकादि-विजितौ चात्यंत-दीनौ च यौ
राधा-कृष्ण-गुण, स्मृतेर् मधुरिमानंदेन सम्मोहितौ
वंदे रूप-सनातनौ रघु-युगौ श्री-जीव-गोपालकौ

राधा-कुंड-तटे कलिंद-तनया-तीरे च वंशीवटे
प्रेमोन्माद-वशाद् अशेष-दशया ग्रस्तौ प्रमत्तौ सदा
गायंतौ च कदा हरेर् गुण-वरं भावाभिभूतौ मुदा
वंदे रूप-सनातनौ रघु-युगौ श्री-जीव-गोपालकौ

हे राधे व्रजदेविके च ललिते हे नंद सूनो कुतः
श्री गोवर्धन कल्प पादपतले कालिंदी-वने कुतः
घोषंताविति सर्वतो व्रजपुरे खेदैर् महा विह्वलौ
वंदे रूप-सनातनौ रघु-युगौ श्री-जीव-गोपालकौ

ध्वनि

  1. श्री अमलात्म दास तथा भक्त वृन्द- इस्कॉन बैंगलोर