श्री गोवर्धनाष्ठकं

Śrī Govardhanāṣṭakam (in Hindi)

(१)

कृष्ण-प्रसादेन समस्त-शैल-

साम्राज्यं आप्नोति च वैरिणो ’पि

शक्रस्य प्राप बलिं स साक्षाद्

गोवर्धनो मे दिषतां अभीष्ठं

(२)

स्व- प्रेष्ठ-हस्तांबुज-सौकुमार्य

सुखानुभूतेर् अति-भूमि- वृत्तॆः

महेंद्र-वज्राहतिम् अपि अजानन्

गोवर्धनो मे दिषतां अभीष्ठं

(३)

यत्रैव कृष्णो वृषभानु-पुत्र्या

दानं गृहीतुं कलहं वितेने

श्रुतेः स्पृहा यत्र महति अतः श्री-

गोवर्धनो मे दिषतां अभीष्ठं

४)

स्नात्वा सरः न्वशु समीर- हस्ती

यत्रैव नीपादि-पराग-दूलिः

आलोलयन् खॆलति चारु स श्री

गोवर्धनो मे दिषतां अभीष्ठं

(५)

कस्तूर्काभिः शयितं किम् अत्रेति

ऊहं प्रभोः स्वस्य मुहुर् वितन्वन्

नैसर्गिक-स्वीय-शिला-सुगंदैर्

गोवर्धनो मे दिषतां अभीष्ठं

(६)

वंश-प्रतिद्वनि-अनुसार-वर्त्म

दिद्रक्षवो यत्र हरिं हरिण्यः

यांत्यो लभंते न हि विस्मिताः स

गोवर्धनो मे दिषतां अभीष्ठं

(७)

यत्रैव गंगां अनु नावि राधां

आरोह्य मध्यॆ तु निमग्न-नौकः

कृष्णो हि राधानुगलो बभौ स

गोवर्धनो मे दिषतां अभीष्ठं

(८)

विना भवेत् किम् हरि-दास-वर्य

पदाश्रयं भक्तिर् अतः श्रयामि

यं एव सप्रेम निजेशयोः श्री-

गोवर्धनो मे दिषतां अभीष्ठं

(९)

ऎतत् पठेद् यो हरि-दास-वर्य-

महानुभावाष्ठकम् आर्द्र-चेताः

श्री-राधिका-माधवयोः पदाब्ज-

दास्यं स विंदेद् अचिरेण साक्षात्

Audio