श्री सचि तनयाश्टकं

Sri Sachi Tanayashtakam(in Hindi)

(१)
उज्ज्वल-वरण-गौर-वर-देहं
विलसित-निरवधि-भाव-विदेहं
त्रि-भुवन-पावन-कृपयः लेशं
तं प्रणमामि च श्री-सचि-तनयं
(२)
गद्गदांतर-भाव-विकारं
दुर्जन-तर्जन-नाद-विशालं
भव-भय-भंजन-कारण-करुणं
तं प्रणमामि च श्री-सचि-तनयं
(३)
अरुणांबर-धर चारु-कपोलं
इंदु-विनिंदित-नख-चय-रुचिरं
जल्पित-निज-गुण-नाम-विनोदं
तं प्रणमामि च श्री-सचि-तनयं
(४)
विगलित-नयन-कमल-जल-धारं
भूषण-नव-रस-भाव-विकारं
गति-अतिमंथर-नृत्य-विलासं
तं प्रणमामि च श्री-सचि-तनयं
(५)
चंचल-चारु-चरण-गति-रुचिरं
मंजिर-रंजित-पद-युग-मधुरं
चंद्र-विनिंदित-शीतल-वदनं
तं प्रणमामि च श्री-सचि-तनयं
(६)
द्रित-कटि-डोर-कमंडलु-दंडं
दिव्य-कलेवर-मुंडित-मुंडं
दुर्जन-कल्मष-खंडन-दंडं
तं प्रणमामि च श्री-सचि-तनयं
(७)
भूषण-भू-रज-अलका-वलितं
कंपित-बिंबाधर-वर-रुचिरं
मलयज-विरचित-उज्ज्वल-तिलकं
तं प्रणमामि च श्री-सचि-तनयं
(८)
निंदित-अरुण-कमल-दल-नयनं
आजानु-लंबित-श्री-भुज-युगलं
कलेवर-कैशॊर-नर्तक-वेशं
तं प्रणमामि च श्री-सचि-तनयं

Audio

  1. Sung by Amogha Lila prabhu and team – ISKCON Bangalore